ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि
शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः
मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा
प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम्
सनत्कुमारप्रमुखैः स्वयं यत्समभाषत
अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित्
शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः
तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे
नारायणमनाद्यन्तं नरेण सहितं तदा
प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम्
प्राह गम्भीरया वाचा किमर्थं तप्यते तपः
साक्षान्नारायणं देवमागतं सिद्धिसूचकम्
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम्
नारायणः स्वयं साक्षात् पुराणो ऽव्यक्तपूरुषः
शुश्रूषास्माकमखिलं संशयं छेत्तुमर्हसि
कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः
किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि
विहाय तापसं रूपं संस्थितं स्वेन तेजसा
श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम्
न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा
प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः
तुष्टुवुर्हृष्टमनसो भक्त्या तं परमेश्वरम्
जयाशेषमुनीशान तपसाभिप्रपूजित
जयानन्त जगज्जन्मत्राणसंहारकारण
जयाम्बिकापते देव नमस्ते परमेश्वर
समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा
इमं समागता देशं किं वा कार्यं मयाच्युत
प्राह देवो महादेवं प्रसादाभिमुखं स्थितम्
अभ्यागता मां शरणं सम्यग्दर्शनकाङ्क्षिणः
सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि