कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः
भविष्यति च सावर्णो दक्षसावर्ण एव च
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात्
भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः
स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम्
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे
ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः
ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया
ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम्
अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः
सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे
आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते
व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुङ्गवाः
प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगो ऽभवत्
समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन्
कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च
ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि
शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः
मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा
प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम्
सनत्कुमारप्रमुखैः स्वयं यत्समभाषत
अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित्
शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः
तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे
नारायणमनाद्यन्तं नरेण सहितं तदा
प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम्