भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः
चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम्
जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात्
सहिष्णुः सोमशर्मा च नकुलीशो ऽन्तिमे प्रभुः
तीर्थे कायावतारे स्याद् देवेशो नकुलीश्वरः
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान्
विकेशश्च विशोकश्च विशापश्शापनाशनः
सनः सनातनश्चैव मुकारश्च सनन्दनः
सुधामा विरजाश्चैव शङ्खपात्रज एव च
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः
सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च
अत्रिरुग्रस्तथा चैव श्रवणो ऽथ श्रविष्ठकः
कश्यपोह्युशना चैव च्यवनो ऽथ बृहस्पतिः
वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः
सुमन्तुर्वर्चरी विद्वान् कबन्धः कुशिकन्धरः
भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः
शालिहोत्रो ऽग्निवेश्यश्च युवनाश्वः शरद्वसुः
उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः
कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः
भविष्यति च सावर्णो दक्षसावर्ण एव च
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात्
भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः
स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम्
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे