तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः
चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्तते
सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम्
तमोगुणं समाश्रित्य रुद्रः संहरते जगत्
एकधा स द्विधा चैव त्रिधा च बहुधा पुनः
नानाकृतिक्रियारूपनामवन्ति स्वलीलया
सृजते ग्रसते चैव वीक्षते च विशेषतः
गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते
आदित्वादादिदेवो ऽसौ अजातत्वादजः स्मृतः
देवेषु च महादेवो माहदेव इति स्मृतः
वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः
अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः
हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः
तारणात् सर्वदुः खानां तारकः परिगीयते
अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः
अबुद्धिपूर्वको विप्रा ब्राह्मीं सृष्टिं निबोधत
न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम्
स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते
तत् पराख्यं तदर्धं च परार्धमभिदीयते
काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्तिकी गतिः
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्
चतुर्युगं द्वादशभिः तद्विभागं निबोधत
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु
अंशकं षट्शतं तस्मात् कृसन्ध्यांशकं विना
त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्तितम्
तदेकसप्ततिगुणं मनोरन्तरमुच्यते
स्वायंभुवादयः सर्वे ततः सावर्णिकादयः
पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः