द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः
त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे
कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः
राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः
पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः
पराशरसुतो व्यासः कृष्णद्वैपायनो ऽभवत्
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च
इतिहासपुराणानि प्रवक्तुं मामयोजयत्
चातुर्हेत्रमभूद् यस्मिंस्तेन यज्ञमथाकरोत्
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः
यजूंषि च यजुर्वेदं सामवेदं च सामभिः
शाखानां तु शतेनैव यजुर्वेदमथाकरोत्
अथर्वाणमथो वेदं बिभेद नवकेन तु
सो ऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनात्
वेदवेद्यो हि भगवान् वासुदेवः सनातनः
एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम्
वेदवेद्यमिमं वेत्ति वेदं वेदपरो मुनिः
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते
अवेदं च विजानाति पाराशर्यो महामुनिः
महादेवावताराणि कलौ शृणुत सुव्रताः
नाम्ना हिताय विप्राणामभूद् वैवस्वते ऽन्तरे
तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे