संभूतो मानसैः सार्धं देवैः सह महाद्युतिः
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह
वामनः कश्यपाद् विष्णुरदित्यां संबभूव ह
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम्
सप्त चैवाभवन् विप्रा याभिः संरक्षिताः प्रजाः
तस्मात् स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात्
भूतान्तरात्मा भगवान् नारायण इति श्रुतिः
चतुर्धा संस्थितो व्यापी सगुणो निर्गुणो ऽपि च
वासुदेवाभिधाना सा गुणातीता सुनिष्कला
निहन्ति सकलं चान्ते वैष्णवी परमा तनुः
जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा
राजसी चानिरुद्धाख्या प्रद्युम्नः सृष्टिकारिका
नारायणाख्यो ब्रह्मासौ प्रिजासर्गं करोति सः
तया संमोहयेद् विश्वं सदेवासुरमानुषम्
वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः
वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते
बिभेद वासुदेवो ऽसौ प्रद्युम्नो हरिरव्ययः
अपान्तरतमाः पूर्वं स्वेच्छया ह्यभवद्धरिः
एको ऽयं वेद भगवान् व्यासो नारायणः प्रभुः
एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति
द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः
त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे
कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः
राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः
पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः
पराशरसुतो व्यासः कृष्णद्वैपायनो ऽभवत्
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः