तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे
तथावतारान् धर्मार्थमीशानस्य कलौ युगे
एतत् सर्वं समासेन सूत वक्तुमिहार्हसि
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा
वैवस्वतो ऽयं यस्यैतत् सप्तमं वर्तते ऽन्तरम्
अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु
विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः
तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयो ऽभवन्
द्वितीयमतदाख्यातमन्तरं शृणु चोत्तरम्
सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः
वशवर्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः
सुतपाः शुक्र इत्येते सप्त सप्तर्षयो ऽभवन्
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः
बभूव शङ्करे भक्तो महादेवार्चने रतः
पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे
मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः
एते देवगणास्तत्र चतुर्दश चतुर्दश
एते सप्तर्षयो विप्रास्तत्रासन् रैवते ऽन्तरे
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः
मनोजवस्तथैवेन्द्रो देवानपि निबोधतः
महानुभावा लेख्याश्च पञ्चैते ह्यष्टका गणाः
अतिनामा सहिष्णुश्च सप्तासन्नृषयः शुभाः
मनुः स वर्तते धीमान् सांप्रतं सप्तमे ऽन्तरे
पुरन्दरस्तथैवेन्द्रो बभूव परवीरहा
विश्वामित्रो भरद्वाजः सप्त सप्तर्षयो ऽभवन्
तदंशभूता राजानः सर्वे च त्रिदिवौकसः
रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः
तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः
सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः
हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः