क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम्
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम्
एतावच्छक्यते वक्तुं नारायणपुरं हि तत्
शेते नारायणः श्रीमान् मायया मोहयञ्जगत्
तमेवाभ्येति कल्पान्ते स एव परमा गतिः
क्षीरार्णवं समाश्रित्य द्वीपः पुष्करसंवृतः
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः
एक एव महासानुः संनिवेशाद् द्विधा कृतः
महावीतं स्मृतं वर्षं धातकीखण्डमेव च
तस्मिन् द्वीपे महावृक्षो न्यग्रोधो ऽमरपूजितः
तत्रैव मुनिशार्दूलाः शिवनारायणालयः
गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः
निरामया विशोकाश्च रागद्वेषविवर्जिताः
न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः
स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः
काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते
तावानेव च विस्तारो लोकालोको महागिरिः
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम्
ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः
सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः
तत्र तत्र चतुर्वक्त्रा रुद्रा नारायणादयः
समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः
अतीत्य वर्तते सर्वं जगत् प्रकृतिरक्षरम्
तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम्
तस्य पूर्वं मयाप्युक्तं यत्तन्माहात्म्यमव्ययम्
अर्णवेषु च सर्वेषु दिवि चैव न सशयः
अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः
अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत्