चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम्
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः
अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः
संलापालापकुशलैर्दिव्याभरणभूषैतैः
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः
असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि
तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम्
शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः
स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम्
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम्
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम्
एतावच्छक्यते वक्तुं नारायणपुरं हि तत्
शेते नारायणः श्रीमान् मायया मोहयञ्जगत्
तमेवाभ्येति कल्पान्ते स एव परमा गतिः
क्षीरार्णवं समाश्रित्य द्वीपः पुष्करसंवृतः
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः
एक एव महासानुः संनिवेशाद् द्विधा कृतः
महावीतं स्मृतं वर्षं धातकीखण्डमेव च
तस्मिन् द्वीपे महावृक्षो न्यग्रोधो ऽमरपूजितः
तत्रैव मुनिशार्दूलाः शिवनारायणालयः
गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः
निरामया विशोकाश्च रागद्वेषविवर्जिताः
न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः
स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः
काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते
तावानेव च विस्तारो लोकालोको महागिरिः
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम्