इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः
अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम्
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः
नारायणपराः सर्वे नारायणपरायणाः
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे
ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम्
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः
स्वयोगोद्भूतकिरणा महागरुडवाहनाः
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम्
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम्
शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम्
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम्
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम्
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः
अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः
संलापालापकुशलैर्दिव्याभरणभूषैतैः
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः
असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि
तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम्
शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः
स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम्