उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक्
न तत्र पापकर्तारः पुरुषा वा कथञ्चन
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते
अमृता सुकृता चैव नामतः परिकीर्तिताः
न चैतेषु युगावस्था पुरुषा वै चिरायुषः
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः
तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः
पञ्चवर्षसहस्त्राणि जीवन्ति च निरामयाः
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः
द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम्
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता
पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः
विद्युदम्भा मही चेति नद्यस्तत्र जलावहाः
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम्
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः
ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः
व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः
सलोकता च सामीप्यं जायते तत्प्रसादतः
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम्
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः