सरांसि तत्र चत्वारि विचित्रकमलाश्रया
रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम्
कर्णिकारवनं द्विव्यं तत्रास्ते शङ्करोमया
रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम्
मृदङ्गमुरजोद्घुष्टं वीणावेणुनिनादितम्
भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम्
तत्र सा वसते देवी नित्यं योगपरायणा
पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः
सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः
सन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम्
क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः
वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः
सा पुरी सर्वरत्नाढ्या नैकप्रस्त्रवणैर्युता
रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम्
समासते परं ज्योतिरारूढाः स्थानमुत्तमम्
नन्दीश्वरस्य कपिले तत्रास्ते सुयशा यतिः
दीप्तमायतनं पुण्यं भास्करस्यामितौजसः
रमते तत्र रम्यो ऽसौ भगवान् शीतदीधितिः
सहस्त्रयोजनायामं सुवर्णमणितोरणम्
सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः
सनन्दनादयो यत्र वसन्ति मुनिपुङ्गवाः
नातिदूरेण तस्याथ दैत्यचार्यस्य धीमतः
कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः
सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः
सरांसि विमला नद्यो देवानामालयानि च
वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्नुयाम्
न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि
संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः
ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः