तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः
आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी
पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम्
राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः
स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम्
प्राकारगोपुरोपेतं मणितोरणमण्डितम्
ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम्
श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम्
अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका
विचिन्त्य जगतोयोनिं स्वशक्तिकिरणोज्ज्वला
सरांसि तत्र चत्वारि विचित्रकमलाश्रया
रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम्
कर्णिकारवनं द्विव्यं तत्रास्ते शङ्करोमया
रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम्
मृदङ्गमुरजोद्घुष्टं वीणावेणुनिनादितम्
भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम्
तत्र सा वसते देवी नित्यं योगपरायणा
पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः
सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः
सन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम्
क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः
वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः
सा पुरी सर्वरत्नाढ्या नैकप्रस्त्रवणैर्युता
रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम्
समासते परं ज्योतिरारूढाः स्थानमुत्तमम्
नन्दीश्वरस्य कपिले तत्रास्ते सुयशा यतिः
दीप्तमायतनं पुण्यं भास्करस्यामितौजसः
रमते तत्र रम्यो ऽसौ भगवान् शीतदीधितिः
सहस्त्रयोजनायामं सुवर्णमणितोरणम्
सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः