पूर्वदेशादिकाश्चैव कामरूपनिवासिनः
तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथार्ऽबुदाः
सौवीराः सैन्धवा हूणा शाल्वाः कल्पनिवासिनः
आसां पिबन्ति सलिलं वसन्ति सरितां सदा
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित्
न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च
रमन्ति विविधैर्भावैः सर्वाश्च स्थिरयौवनाः
स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः
देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते
भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक्
तत्रापि देवदेवस्य भवस्यायतनं महत्
नदी नानाविधैः पद्मैरनेकैः समलङ्कृता
उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा
देवर्षिगणजुष्टानि तथा नारायणस्य च
स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम्
सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम्
आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः
स्थानानामष्टकं पुण्यं दुराधर्षं सुरद्विषाम्
सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि तु
सुपुण्यं सुमहत् स्थानं ब्रह्मणो ऽव्यक्तजन्मनः
उपासते सदा देवं पितामहमजं परम्
आस्ते हिताय लोकानां शान्तानां परमा गतिः
स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः
प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः
सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः
उपासते महावीर्या ब्रह्मविद्यापरायणाः
सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः
मुनीनां युक्तमनसां सरांसि सरितस्तथा
ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः
धायायन्ति देवमीशानं येन सर्वमिदं ततम्