त्रयोदश सहस्त्राणि वर्षाणां वै स्थिरायुषः
परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः
कर्मभूमिरियं विप्रा नराणामधिकारिणाम्
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः
योजनानां सहस्त्रं तु द्वीपो ऽयं दक्षिणोत्तरः
ब्राह्मणाः क्षत्रिया वैश्य मध्ये शूद्रास्तथैव च
स्त्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः
इरावती वितस्ता च विपाशा देविका कुहूः
कौशिकी लोहिता चैव हिमवत्पादनिः सृताः
पर्णाशा वन्दना चैव सदानीरा मनोरमा
शिग्रुः स्वशिल्पापि तथा पारियात्राश्रयाः स्मृताः
मन्दाकिनी चित्रकूटा तामसी च पिशाचिका
ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम्
वेण्या वैतरणी चैव बलाका च कुमुद्वती
विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः
दक्षिणापथगा नद्यः सह्यपादविनिः सृताः
मलयान्निः सृता नद्यः सर्वाः शीतजलाः स्मृताः
शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम्
सर्वपापहराः पुण्याः स्नानदानादिकर्मसु
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः
तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथार्ऽबुदाः
सौवीराः सैन्धवा हूणा शाल्वाः कल्पनिवासिनः
आसां पिबन्ति सलिलं वसन्ति सरितां सदा
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित्
न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च
रमन्ति विविधैर्भावैः सर्वाश्च स्थिरयौवनाः
स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः
देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते
भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक्