पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ
जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः
स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम्
दश वर्षसहस्त्राणि जीवन्ते आम्रभोजनाः
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः
जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव
जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः
चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम्
दशवर्षहस्त्राणि जीवन्ति प्लक्षभोजनाः
ध्याने मनः समाधाय सादरं भक्तिसंयुताः
दशवर्षसहस्त्राणि जीवन्तीक्षुरसाशिनः
उपासते सदा विष्णुं मानवा विष्णुभाविताः
विमानं वासुदेवस्य पारिजातवनाश्रितम्
प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम्
स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलङ्कृतम्
दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम्
नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः
स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम्
राजानः सर्वकालं तु महिमानं प्रकुर्वते
स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः
त्रयोदश सहस्त्राणि वर्षाणां वै स्थिरायुषः
परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः
कर्मभूमिरियं विप्रा नराणामधिकारिणाम्
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः
योजनानां सहस्त्रं तु द्वीपो ऽयं दक्षिणोत्तरः
ब्राह्मणाः क्षत्रिया वैश्य मध्ये शूद्रास्तथैव च
स्त्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः
इरावती वितस्ता च विपाशा देविका कुहूः
कौशिकी लोहिता चैव हिमवत्पादनिः सृताः