सीता चालकनन्दा च सुचक्षुर्भद्रनामिका
ततश्च पूर्ववर्षेण भद्राश्वेनैति चार्णवम्
प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः
पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम्
अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः
दक्षिणोत्तरमायामावानीलनिषधायतौ
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ
मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ
पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ
जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः
स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम्
दश वर्षसहस्त्राणि जीवन्ते आम्रभोजनाः
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः
जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव
जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः
चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम्
दशवर्षहस्त्राणि जीवन्ति प्लक्षभोजनाः
ध्याने मनः समाधाय सादरं भक्तिसंयुताः
दशवर्षसहस्त्राणि जीवन्तीक्षुरसाशिनः
उपासते सदा विष्णुं मानवा विष्णुभाविताः
विमानं वासुदेवस्य पारिजातवनाश्रितम्
प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम्
स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलङ्कृतम्
दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम्
नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः
स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम्
राजानः सर्वकालं तु महिमानं प्रकुर्वते
स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः