नाम्ना सुद्धवती पुण्या सर्वकामर्धिसंयुता
तीर्थयात्रापरी नित्यं ये च लोके ऽधमर्षिणः
नाम्ना गन्धवती पुण्या तत्रास्ते ऽसौ प्रभञ्जनः
प्राणायामपरामर्त्यास्थानन्तद्यान्ति शाश्वतम्
नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते
तेषां तद् रचितं स्थानं नानाभोगसमन्वितम्
नाम्ना यशोवती पुण्या सर्वेषां सुदुरासदा
घमेश्वरस्य विपुलं तत्रास्ते स गणैर्वृतः
निवासः कल्पितः पूर्वं देवदेवेन शूलिना
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः
सीता चालकनन्दा च सुचक्षुर्भद्रनामिका
ततश्च पूर्ववर्षेण भद्राश्वेनैति चार्णवम्
प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः
पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम्
अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः
दक्षिणोत्तरमायामावानीलनिषधायतौ
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ
मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ
पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ
जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः
स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम्
दश वर्षसहस्त्राणि जीवन्ते आम्रभोजनाः
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः
जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव
जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः
चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम्
दशवर्षहस्त्राणि जीवन्ति प्लक्षभोजनाः
ध्याने मनः समाधाय सादरं भक्तिसंयुताः