आत्मा च पुद्गलो जीवो यतः सर्वाः प्रवृत्तयः
इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत्
येनासौ जायते कर्ता भूतादींश्चानुपश्यति
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश
भूततन्मात्रसर्गो ऽयं भूतादेरभवन् प्रजाः
आकाशं शुषिरं तस्मादुत्पन्नं शब्दलक्षणम्
वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते
संभवन्ति ततो ऽम्भांसि रसाधाराणि तानि तु
संघातो जायते तस्मात् तस्य गन्धो गुणो मतः
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको ऽभवत्
त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान्
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः
तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते
परस्परानुप्रवेशाद् धारयन्ति परस्परम्
नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः
महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते
विशेषेभ्यो ऽण्डमभवद् बृहत् तदुदकेशयम्
प्राकृते ऽण्डे विवृत्तः स क्षेत्रज्ञो ब्रह्मसंज्ञितः
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत
हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम्
गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना
आपो दशगुणेनैव तेजसा बाह्यतो वृताः
आकाशेनावृतो वायुः खं तु भूतादिनावृतम्
एते लोका महात्मनः सर्वतत्त्वाभिमानिनः
ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः
एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम्
प्रजापतेः परा मूर्तिरितीयं वैदिकी श्रुतिः
द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः