एकशृङ्गो महाशैलो गजशैलः पिशाचकः
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः
शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः
सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च
अञ्जनो मधुमांस्तद्वत् कुमुदो मुकुटस्तथा
पारिजातो महाशैलस्तथैव कपिलोदकः
एते पर्वतराजानः सिद्धगन्धर्वसेविताः
शङ्खकूटो ऽथ वृषभो हंसो नागस्तथा परः
मयूरः कपिलश्चैव महाकपिल एव च
सरसो मानसस्येह उत्तरे केसराचलाः
सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च
प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः
मेरोरुपरि विख्याता देवदेवस्य वेधसः
उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशङ्करैः
सनत्कुमारो भगवानुपास्ते नित्यमेव हि
समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम्
दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम्
महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम्
रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः
पूजयन्ति महादेवं तापसाः सत्यवादिनः
गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः
नाम्नामरावती पूर्वे सर्वशोभासमन्विता
उपासते सहस्त्राक्षं देवास्तत्र सहस्त्रशः
तेषां तत् परमं स्थानं देवानामपि दुर्लभम्
तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता
जपिनां होमिनां स्थानं दानवानां दुरासदम्
नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता
स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम्
रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता
गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः