भूपद्मास्यास्य शैलो ऽसौ कर्णिकात्वेन संस्थितः
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः
सहस्त्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः
उत्तराः कुरवश्चैव यथैते भरतास्तथा
इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः
सरित् प्रवर्तते चापि पीयते तत्र वासिभिः
तत्पानात् सुस्थमनसां नराणां तत्र जायते
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम्
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम्
सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा
वैकङ्को मणिशैलश्च ऋक्षवांश्चाचलोत्तमाः
इत्येते देवरचिताः सिद्धावासाः प्रकीर्तिताः
त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा
समूलो वसुधारश्च कुरवश्चैव सानुमान्
एकशृङ्गो महाशैलो गजशैलः पिशाचकः
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः
शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः
सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च
अञ्जनो मधुमांस्तद्वत् कुमुदो मुकुटस्तथा
पारिजातो महाशैलस्तथैव कपिलोदकः
एते पर्वतराजानः सिद्धगन्धर्वसेविताः
शङ्खकूटो ऽथ वृषभो हंसो नागस्तथा परः
मयूरः कपिलश्चैव महाकपिल एव च
सरसो मानसस्येह उत्तरे केसराचलाः