नृपेण बलिना चैव पातालस्वर्गवासिना
सितं हि वितलं प्रोक्तं तलं चैव सितेतरम्
रसातलमिति ख्यातं तथान्यैश्च निषेवितम्
तलातलमिति ख्यातं सर्वशोभासमन्वितम्
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः
महान्तकाद्यैर्नागैश्च प्रह्मादेनासुरेण च
महाजम्भेन वीरेण हयग्रीवेण वै तथा
तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम्
पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः
कालाग्निरुद्रो योगात्मा नारसिंहो ऽपि माधवः
तदाधारमिदं सर्वं स कालाग्निमपाश्रितः
विषज्वालामयो ऽन्ते ऽसौ जगत् संहरति स्वयम्
तामसी शांभवी मूर्तिः कालो लोकप्रकालनः
अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम्
कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः
द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः
दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः
द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः
तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः
प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः
भूपद्मास्यास्य शैलो ऽसौ कर्णिकात्वेन संस्थितः
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः
सहस्त्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः
उत्तराः कुरवश्चैव यथैते भरतास्तथा
इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः