ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा
आपूर्यते परस्यान्तः सततं दिवसक्रमात्
एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः
पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात्
पिबन्ति देवता विप्रा यतस्ते ऽमृतभोजनाः
अपराह्णे पितृगणा जघन्यं पर्युपासते
सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम्
मासतृप्तिमपाप्यग्र्यां पितरः सन्ति निर्वृताः
एवं सूर्यनिमित्तस्य क्षयो वृद्धिश्च सत्तमाः
वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः
अष्टबिश्चाथ भौमस्य रथो हैमः सुशोभनः
स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः
सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः
भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः
कल्पाधिकारिणस्तत्र संस्थिता द्विजपुङ्गवाः
सनन्दनादयस्तत्र संस्थिता ब्रह्मणः सुताः
वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः
अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम्
योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम्
तत्र गत्वा न शोचन्ति स विष्णुः स च शङ्करः
न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम्
शेते तत्र हरिः श्रीमान् मायी मायामयः परः
यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम्
वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः
योगिभिः शतसाहस्त्रैर्भूतै रुद्रैश्च संवृतः
मदादेवपराः शान्तास्तापसा ब्रह्मवादिनः
द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः
महातलादयश्चाधः पातालाः सन्ति वै द्विजाः
प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम्