मार्गशीर्ष भवेन्मित्रः पौषे विष्णुः सनातनः
षड्भिः सहस्त्रैः पूषा तु देवोंशः सप्तभिस्तथा
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः
षड्भी रश्मिसहस्त्रैस्तु विष्णुस्तपति विश्वसृक्
हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः
सूर्यो ऽमरत्वममृते त्रयं त्रिषु नियच्छति
भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः
भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम्
यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः
वामदक्षिणतो युक्ता दश तेन निशाकरः
ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा
आपूर्यते परस्यान्तः सततं दिवसक्रमात्
एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः
पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात्
पिबन्ति देवता विप्रा यतस्ते ऽमृतभोजनाः
अपराह्णे पितृगणा जघन्यं पर्युपासते
सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम्
मासतृप्तिमपाप्यग्र्यां पितरः सन्ति निर्वृताः
एवं सूर्यनिमित्तस्य क्षयो वृद्धिश्च सत्तमाः
वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः
अष्टबिश्चाथ भौमस्य रथो हैमः सुशोभनः
स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः
सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः
भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः
कल्पाधिकारिणस्तत्र संस्थिता द्विजपुङ्गवाः
सनन्दनादयस्तत्र संस्थिता ब्रह्मणः सुताः
वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः
अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम्
योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम्