भासते वेदविदुषां नीलग्रीवः सनातनः
स्थानं तद् विदुरादित्यं वेदज्ञा वेदविग्रहम्
करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः
विश्वव्यचाः पुनश्चान्यः संयद्वसुरतः परः
सुपुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम्
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः
विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा
शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट् तथा
वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च
आदानान्नित्यमादित्यस्तेजसां तमसां प्रभुः
स्थावराञ्जङ्गमांश्चैव यच्च कुल्यादिकं पयः
तासां चतुः शतं नाड्यो वर्षन्ते चित्रमूर्तयः
अमृता नाम ताः सर्वा रश्मयो वृष्टिसर्जनाः
चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः
शुक्रास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः
अमृतेन सुरान् सर्वांस्त्रिभिस्त्ररिंस्तर्पयत्यसौ
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः
चैत्रे मासि भवेदंशो धाता वैशाखतापनः
विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः
मार्गशीर्ष भवेन्मित्रः पौषे विष्णुः सनातनः
षड्भिः सहस्त्रैः पूषा तु देवोंशः सप्तभिस्तथा
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः
षड्भी रश्मिसहस्त्रैस्तु विष्णुस्तपति विश्वसृक्
हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः
सूर्यो ऽमरत्वममृते त्रयं त्रिषु नियच्छति
भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः
भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम्
यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः
वामदक्षिणतो युक्ता दश तेन निशाकरः