त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुङ्गवाः
भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम्
द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम्
सूर्य एव त्रिलोकस्य मूलं परमदैवतम्
निर्वहन्ति पदं तस्य तदंशा विष्णुमूर्तयः
श्छन्दोमयं ब्रह्ममयं पुराणम्
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च
आप्यायन्ति वै भानुं वसन्तादिषु वै क्रमात्
भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च
स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम्
रथस्वनो ऽथ वरुणः सुषेणः सेनजित् तथा
ग्रामण्यो देवदेवस्य कुर्वते ऽभीशुसंग्रहम्
सर्पो व्याघ्रस्तथापश्च वातो विद्युद् दिवाकरः
राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात्
एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः
कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम्
उग्रसेनो वसुरुचिरर्वावसुरथापरः
गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात्
मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः
अन्या च पूर्वचित्तिः स्यादन्या चैव तिलोत्तमा
तोषयन्ति महादेवं भानुमात्मानमव्ययम्
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम्
गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः
विमाने च स्थितो नित्यं कामगे वातरंहसि
गोपयन्तीह भूतानि सर्वाणीहायुगक्षयात्
यथायोगं यथासत्त्वं स एष तपति प्रभुः
पितृदेवमनुष्यादीन् स सदाप्यायेद् रविः