लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः
सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते
तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति
स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम्
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः
बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते
सौरो ऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः
सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः
तदा सर्वग्रहाणां स सूर्यो ऽधस्तात् प्रसर्पति
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः
ऋषीणां चैव सप्तानान्ध्रु वश्चोर्ध्वं व्यवस्थितः
ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्
संवत्सरमेय कृत्स्नं कालचक्रं प्रतिष्ठितम्
पञ्चान्यानि तु सार्धानि स्यन्दनस्य द्विजोत्तमाः
ह्रस्वो ऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य तु
हयाश्च सप्त छन्दांसि तन्नामानि निबोधत
अनष्टुप् त्रिष्टुबित्युक्ताश्छन्दांसि हरयो हरेः
दक्षिणे न यमस्याथ वरुणस्य तु पश्चिमे
अमरावती संयमनी सुखा चैव विभा क्रमात्
ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः
सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखम्
अशेषासु दिशास्वेव तथैव विदिशासु च
करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः