तृप्तये परमेशस्य तत् पदं याति शाश्वतम्
न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः
नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन्
इदानीं श्रोतुमिच्छामो यथा संभवते जगत्
नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम
प्राह गम्भीरया वाचा भूतानां प्रभवाप्ययौ
अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः
अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्
विग्रहः सर्वभूतानामात्मनाधिष्ठितं महत्
असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्तत
प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः
अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः
सर्वभूतमयो ऽव्यक्तो ह्यन्तर्यामीश्वरः परः
क्षोभयामास योगेन परेण परमेश्वरः
अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान्
स संकोचविकासाभ्यां प्रधानत्वे ऽपि च स्थितः
प्रादुरासीन्महद् बीजं प्रधानपुरुषात्मकम्
प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत् स्मृतम्
त्रिविधो ऽयमहङ्कारो महतः संबभूव ह
आत्मा च पुद्गलो जीवो यतः सर्वाः प्रवृत्तयः
इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत्
येनासौ जायते कर्ता भूतादींश्चानुपश्यति
तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश
भूततन्मात्रसर्गो ऽयं भूतादेरभवन् प्रजाः
आकाशं शुषिरं तस्मादुत्पन्नं शब्दलक्षणम्
वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते
संभवन्ति ततो ऽम्भांसि रसाधाराणि तानि तु
संघातो जायते तस्मात् तस्य गन्धो गुणो मतः