तस्यर्षभो ऽभवत् पुत्रो मरुदेव्यां महाद्युतिः
वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि
ज्ञानयोगरतो भूत्वा महापाशुपतो ऽभवत्
सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो व्यजायत
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः
पृथुस्ततस्ततो रक्तो रक्तस्यापि गयः सुतः
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत
त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः
तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः
असूत पुत्रं धर्मज्ञं महाबाहुमरिन्दमम्
एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा
त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु
जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः
तावद् भूर्लोक आख्यातः पुराणे द्विजपुङ्गवाः
भुवर्लोको ऽपि तावान्स्यान्मण्डलाद् भास्करस्य तु
स्वर्लोकः स समाख्यातस्तत्र वायोस्तु नेमयः
संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः
भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम्
नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते
तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः
लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः
सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते
तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति
स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम्
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः
बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने