धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ
नाम्ना तु धातकेश्चापि धातकीखण्डमुच्यते
कुसुमोत्तरो ऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः
कुमारस्य तु कौमारं तृतीयं सुकुमारकम्
मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम्
कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः
षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः
ज्ञेयानि सप्त तान्येषु द्वीपेष्वेवं न यो मतः
वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः
आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा
वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः
अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत
रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमाहलकः
विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः
हेमकूटं ततो वर्षं ददौ किंपुरुषाय तु
इलावृताय प्रददौ मेरुमध्यमिलावृतम्
श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते
गन्धमादनवर्षं तु केतुमालाय दत्तवान्
संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः
तस्यर्षभो ऽभवत् पुत्रो मरुदेव्यां महाद्युतिः
वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि
ज्ञानयोगरतो भूत्वा महापाशुपतो ऽभवत्
सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो व्यजायत
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः
पृथुस्ततस्ततो रक्तो रक्तस्यापि गयः सुतः
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत
त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः
तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः
असूत पुत्रं धर्मज्ञं महाबाहुमरिन्दमम्