समागता महाभागा यमुना यत्र निम्नगा
योजनानां सहस्त्रेषु कीर्तनात् पापनाशनी
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम्
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
धर्मराजं महापापैर्मुच्यते नात्र संशयः
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम्
आस्ते वटेश्वरो नित्यं तत् तीर्थं तत् तपोवनम्
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य तु
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम्
अत्राधीत्य द्विजो ऽध्यायं निर्मलत्वमवाप्नुयात्
जातिस्मरित्वं लभते नाकपृष्ठे च मोदते
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव
तीर्तानि कथयामास पृथिव्यां यानि कानिचित्
पृष्टः प्रोवाच सकलमुक्त्वाथ प्रययो मुनिः
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति
पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम्
इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम्
वनानि सरितः सूर्यग्रहाणां स्थितिरेव च
नृपाणां तत्समासेन सूत वक्तुमिहार्हसि
नमस्कृत्वाप्रमेयाय यदुक्तं तेन धीमता
पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश
मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च
धार्मिको दाननिरतः सर्वभूतानुकम्पकः
जातिस्मरा महाभागा न राज्ये दधिरे मतिम्
जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः
शाल्मलेशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान्
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत्
पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः