गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः
माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते
नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्कृतम्
स मृतो जायते स्वर्गे नरकं च न पश्यति
माघमासे गमिष्यन्ति गङ्गायमुनसंगमम्
प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम्
अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः
तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
स भुक्त्वा विपुलान् भोगांस्तत् तीर्थं भजते पुनः
षष्टिं वर्षसहस्त्राणि षष्टिं वर्षशतानि च
ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
शतं वर्षसहस्त्राणि स्वर्गलोके महीयते
भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः
विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः
भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः
ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्
सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत्
समागता महाभागा यमुना यत्र निम्नगा
योजनानां सहस्त्रेषु कीर्तनात् पापनाशनी
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम्
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
धर्मराजं महापापैर्मुच्यते नात्र संशयः
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम्
आस्ते वटेश्वरो नित्यं तत् तीर्थं तत् तपोवनम्
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य तु