हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्
यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते
परित्यजतियः प्राणान् शृणु तस्यापि यत् फलम्
आस्ते स पितृभिः सार्धं स्वर्गलोके नराधिप
नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात्
कोटिवर्षसहस्त्राणि स्वर्गलोके महीयते
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
दिवि तारयते देवांस्तेन त्रिपथगा स्मृता
तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते
मोक्षदा सर्वभूतानां महापातकिनामपि
गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः
माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते
नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्कृतम्
स मृतो जायते स्वर्गे नरकं च न पश्यति
माघमासे गमिष्यन्ति गङ्गायमुनसंगमम्
प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम्
अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः
तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
स भुक्त्वा विपुलान् भोगांस्तत् तीर्थं भजते पुनः
षष्टिं वर्षसहस्त्राणि षष्टिं वर्षशतानि च
ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले
शतं वर्षसहस्त्राणि स्वर्गलोके महीयते
भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः
विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः
भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः
ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्
सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत्