मोदते मुनिभिः सार्धं स्वकृतेनेह कर्मणा
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत्
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः
सुवर्णमथ मुक्तां वा तथैवान्यान् प्रतिग्रहान्
निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत्
स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठां पयस्विनीम्
तावद् वर्षसहस्त्राणि रुद्रलोके महीयते
आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम्
बलीवर्दं समारूढः शृणु तस्यापि यत्फलम्
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः
यथात्मना तथा सर्वान् दानं विप्रेषु दापयेत्
निष्फलं तस्य तत् तीर्थं तसमाद्यानं विवर्जयेत्
आर्षेण तु विवाहेन यथा विभवविस्तरम्
उत्तरान् स कुरून् गत्वा मोदते कालमक्षयम्
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति
लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम्
तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः
मतिरुत्क्रमणीया ते प्रयागगामनं प्रति
तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन
सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे
ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम्
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः
आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान्
स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम्
अवचः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम्
सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत्