पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम्
अत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
बहून्यन्यानि तीर्थानि सर्वपापापहानि तु
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम्
यमुनां रक्षति सदा सविता सप्तवाहनः
मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम्
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्
मुत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात्
अपि दुष्कृतकर्मासौ लभते परमां गतिम्
तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः
ईप्सितांल्लभते कामान् वदन्ति मुनिपुङ्गवाः
वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः
यावन्न स्मरते जन्म तापत् स्वर्गे महीयते
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति
मोदते मुनिभिः सार्धं स्वकृतेनेह कर्मणा
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत्
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः
सुवर्णमथ मुक्तां वा तथैवान्यान् प्रतिग्रहान्
निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत्
स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठां पयस्विनीम्
तावद् वर्षसहस्त्राणि रुद्रलोके महीयते
आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम्
बलीवर्दं समारूढः शृणु तस्यापि यत्फलम्