अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने
युधिष्ठिरो महात्मेति पूजयामास तं मुनिम्
किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाहमागतः
कथय त्वं समासेन येन मुच्येत किल्बिषैः
अस्माभिः कौरवैः सार्धं प्रसङ्गान्मुनिपुङ्गव
मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति
प्रयागगमनं श्रेष्ठं नराणां पापनाशनम्
समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवदैः
मृतानां का गतिस्तत्र स्नातानामपि किं फलम्
भवता विदितं ह्येतत् तन्मे ब्रूहि नमो ऽस्तु ते
पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम्
अत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
बहून्यन्यानि तीर्थानि सर्वपापापहानि तु
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम्
यमुनां रक्षति सदा सविता सप्तवाहनः
मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम्
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्
मुत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात्
अपि दुष्कृतकर्मासौ लभते परमां गतिम्
तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः
ईप्सितांल्लभते कामान् वदन्ति मुनिपुङ्गवाः
वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः
यावन्न स्मरते जन्म तापत् स्वर्गे महीयते
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति