नदीनां चैव तीरेषु देवतायतनेषु च
जपेदीशं नमस्कृत्य स याति परमां गतिम्
इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत
इदानीं कथयास्माकं सूत सर्वार्थविद् भवान्
प्रयागस्य च माहात्म्यं यत्र देवः पितामहः
यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम्
शोकेन महाताविष्टा मुमोह स युधिष्ठिरः
संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति
मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने
अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने
युधिष्ठिरो महात्मेति पूजयामास तं मुनिम्
किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाहमागतः
कथय त्वं समासेन येन मुच्येत किल्बिषैः
अस्माभिः कौरवैः सार्धं प्रसङ्गान्मुनिपुङ्गव
मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति
प्रयागगमनं श्रेष्ठं नराणां पापनाशनम्
समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवदैः
मृतानां का गतिस्तत्र स्नातानामपि किं फलम्
भवता विदितं ह्येतत् तन्मे ब्रूहि नमो ऽस्तु ते
पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम्
अत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
बहून्यन्यानि तीर्थानि सर्वपापापहानि तु
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम्
यमुनां रक्षति सदा सविता सप्तवाहनः
मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम्
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्
मुत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात्