भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः
विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते
प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम्
गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा
इह क्षेत्रे न वस्तव्यं कृतघ्नो ऽसि त्वया सदा
उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः
एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत
ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः
श्रावयेद् वा द्विजान् शान्तान् सो ऽपियातिपराङ्गतिम्
नदीनां चैव तीरेषु देवतायतनेषु च
जपेदीशं नमस्कृत्य स याति परमां गतिम्
इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत
इदानीं कथयास्माकं सूत सर्वार्थविद् भवान्
प्रयागस्य च माहात्म्यं यत्र देवः पितामहः
यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम्
शोकेन महाताविष्टा मुमोह स युधिष्ठिरः
संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति
मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने
अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने
युधिष्ठिरो महात्मेति पूजयामास तं मुनिम्
किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाहमागतः
कथय त्वं समासेन येन मुच्येत किल्बिषैः
अस्माभिः कौरवैः सार्धं प्रसङ्गान्मुनिपुङ्गव
मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति
प्रयागगमनं श्रेष्ठं नराणां पापनाशनम्
समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवदैः
मृतानां का गतिस्तत्र स्नातानामपि किं फलम्
भवता विदितं ह्येतत् तन्मे ब्रूहि नमो ऽस्तु ते