प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः
लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत
प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान्
रमते भगवान् नित्यं रुद्रैश्च परिवारितः
उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः
आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम्
लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम्
ददौ कृष्णास्य भगवान वरदो वरमुत्तमम्
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय
भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति
ते यान्ति तत् परं स्थानं नात्र कार्या विचारणा
अर्चयन्ति महादेवं मध्यमेश्वरमीश्वरम्
एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम्
यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह
उवास सुचिरं कालं पूजयन् वै महेश्वरम्
जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम्
स्वर्नोलं च महातीर्थं गौरीतीर्थमनुत्तमम्
जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम्
नारायणं परं तीर्थं वायुतीर्थमनुत्तमम्
यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम्
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम्
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम्
तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम्
मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि
तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति
गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम्
चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम्