जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः
ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः
पूजयित्वा यथान्यायमिदं वचनमब्रुवन्
प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान्
व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः
अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः
प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम्
नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम्
प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम्
क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात्
प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः
लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत
प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान्
रमते भगवान् नित्यं रुद्रैश्च परिवारितः
उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः
आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम्
लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम्
ददौ कृष्णास्य भगवान वरदो वरमुत्तमम्
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय
भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति
ते यान्ति तत् परं स्थानं नात्र कार्या विचारणा
अर्चयन्ति महादेवं मध्यमेश्वरमीश्वरम्
एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम्
यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह
उवास सुचिरं कालं पूजयन् वै महेश्वरम्
जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम्
स्वर्नोलं च महातीर्थं गौरीतीर्थमनुत्तमम्
जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम्