चक्रे समाधाय मनो ऽवगाहम्
शशाङ्कचिह्नाङ्कितचारुमौलिः
यथोदये भानुरशेषदेवः
गन्धर्वविद्याधरकिंनराद्याः
त्रयीमयं यत्र विभाति रुद्रः
प्रणम्य तुष्टाव कपर्दिनं तम्
मादित्यमग्निं कपिलाधिरूढम्
महामुनिं ब्रह्ममयं पवित्रम्
हिरण्यगर्भाधिपतिं त्रिनेत्रम्
प्रणम्य नित्यं शरणं प्रपद्ये
नमस्करिष्ये न यतो ऽन्यदस्ति
तं ब्रह्मपारं भवतः स्वरूपम्
स्वयंभुवं त्वां शरणं प्रपद्ये
सब्रह्मपारं प्रणतो ऽस्मि नित्यम्
कालं बृहन्तं भवतः स्वरूपम्
पिनाकिनं त्वां शरणं व्रजामि
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम्
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम्
निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत्
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति
भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात्
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम्
द्रक्ष्यामः सततं देवं पूजयामो ऽथ शूलिनम्
उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम्
द्रष्टुं ययौ मध्यमेशं बहुवर्षगणान् प्रभुः
नदीं विमलपानीयां दृष्ट्वा हृष्टो ऽभवन्मुनिः
चकार भावपूतात्मा स्नानं स्नानविधानवित्
पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम्
मध्यमेश्वरमीशानमर्चयामास शूलिनम्
द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम्