प्रोवाच को भवान् कस्माद् देशाद् देशमिमंश्रितः
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः
न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः
न दृष्टं नन्मया घोरं यमस्य वदनं मुने
पिपासयाधुनाक्रान्तो न जानामि हिताहितम्
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः
त्वादृशो न हि लोके ऽस्मिन् विद्यते पुण्यकृत्तमः
संस्पृष्टो वन्दितो भूयः को ऽन्यस्त्वत्सदृशो भुवि
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि
चक्रे समाधाय मनो ऽवगाहम्
शशाङ्कचिह्नाङ्कितचारुमौलिः
यथोदये भानुरशेषदेवः
गन्धर्वविद्याधरकिंनराद्याः
त्रयीमयं यत्र विभाति रुद्रः
प्रणम्य तुष्टाव कपर्दिनं तम्
मादित्यमग्निं कपिलाधिरूढम्
महामुनिं ब्रह्ममयं पवित्रम्
हिरण्यगर्भाधिपतिं त्रिनेत्रम्
प्रणम्य नित्यं शरणं प्रपद्ये
नमस्करिष्ये न यतो ऽन्यदस्ति
तं ब्रह्मपारं भवतः स्वरूपम्
स्वयंभुवं त्वां शरणं प्रपद्ये
सब्रह्मपारं प्रणतो ऽस्मि नित्यम्
कालं बृहन्तं भवतः स्वरूपम्
पिनाकिनं त्वां शरणं व्रजामि
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम्
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम्
निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत्
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति