तेनैव च शरीरेण प्राप्तास्तत् परमं पदम्
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते
गोपितं देवदेवेन महादेवेन शंभुना
उपासते महादेवं जपन्ति शतरुद्रियम्
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम्
ये कृत्तिवासं शरणं प्रपन्नाः
ध्यायन्ति चित्ते यतयो महेशम्
स्तुवन्ति रुद्रं प्रणमन्ति शंभुम्
जाने महादेवमनेकरूपम्
जगाम लिङ्गं तद् द्रष्टुं कपर्देश्वरमव्ययम्
पिशाचमोचने तीर्थे पूजयामास शूलिनम्
मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम्
मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम्
धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान्
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता
गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः
कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम्
कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम्
स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति
विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात्
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः
जायते योगसंसिद्धिः सा षण्मासे न संशयः
पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम्
उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम
अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः