भवत्येव धृतं स्थानमैश्वरं तिलके कृते
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम्
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित्
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति
इदानीं क्रममस्माकमाश्रमाणां वद प्रभो
क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत्
प्रव्रजेद् ब्रह्मचर्यात् तु यदिच्छेत् परमां गतिम्
यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत्
नगार्हस्थ्यं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः
तत्रैव संन्यसेद् विद्वाननिष्ट्वापि द्विजोत्तमः
तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि
न संन्यासी वनं चाथ ब्रह्माचर्यं न साधकः
प्रव्रजेत गृही विद्वान् वनाद् वा श्रुतिचोदनात्
अन्धः पङ्गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः
पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति
श्रद्धावनाश्रमे युक्तः सो ऽमृतत्वाय कल्पते
स्वधर्मपालको नित्यं सो ऽमृतत्वाय कल्पते
प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम्
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम्
एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम्
कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम्
क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम्
अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु
अविद्वानपि कुर्वोत कर्माप्नोत्यचिरात् पदम्
मनः प्रसादमन्वेति ब्रह्म विज्ञायते ततः
ज्ञानं च कर्मसहितं जायते दोषवर्जितम्
कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात्
एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते
नित्यानन्दं निराभासं तस्मिन्नेव लयं व्रजेत्