मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह
जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम्
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम्
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम्
रमते भगवान् रुद्रो जन्तूनामपवर्गदः
तदेतद् विमलं लिङ्गमोङ्कारे समवस्थितम्
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम्
ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः
उपास्य देवमीशानं प्राप्तवन्तः परं पदम्
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम्
विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च
न कश्चिदिह जानाति विना शंभोरनुग्रहात्
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः
कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः
ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम्
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते
गोपितं देवदेवेन महादेवेन शंभुना
उपासते महादेवं जपन्ति शतरुद्रियम्
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम्
ये कृत्तिवासं शरणं प्रपन्नाः
ध्यायन्ति चित्ते यतयो महेशम्
स्तुवन्ति रुद्रं प्रणमन्ति शंभुम्