ततो नैव चरेत् पापं कायेन मनसा गिरा
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः
देव्यै देवेन कथितं सर्वपापविनाशनम्
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम्
ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम्
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः
मृतानां च पुनर्जनम् न भूयो भवसागरे
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः
मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह
जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम्
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम्
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम्
रमते भगवान् रुद्रो जन्तूनामपवर्गदः
तदेतद् विमलं लिङ्गमोङ्कारे समवस्थितम्
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम्
ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः
उपास्य देवमीशानं प्राप्तवन्तः परं पदम्
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम्
विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च
न कश्चिदिह जानाति विना शंभोरनुग्रहात्
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः
कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः
ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः