न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम्
व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम्
वायुभक्षश्च सततं वाराणस्यां स्तितो नरः
वाराणसीं समासाद्य पुनाति सकलं नरः
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः
प्राप्यते तत् परं स्थानं सहस्त्रेणैव जन्मना
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम्
तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम्
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात्
यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम्
तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम्
यत्र नारायणो देवो महादेवो दिवेश्वरः
उपासते मां सततं देवदेवं पितामहम्
वाराणसीं समासाद्य ते यान्ति परमां गतिम्
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते
ततो नैव चरेत् पापं कायेन मनसा गिरा
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः
देव्यै देवेन कथितं सर्वपापविनाशनम्
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम्
ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम्
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः
मृतानां च पुनर्जनम् न भूयो भवसागरे
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः