कथं त्वां पुरुषो देवमचिरादेव पश्यति
आयासबहुला लोके यानि चान्यानि शङ्कर
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम्
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः
सर्वेषामेव भूतानां संसारार्णवतारिणी
निवसन्ति महात्मानः परं नियममास्थिताः
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत्
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः
कालेन निधनं प्राप्ता अविमुक्ते वरानने
शिवे मम पुरे देवि जायन्ते तत्र मानवाः
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम्
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः
विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः
स याति परमं स्थानं यत्र गत्वा न शोचति
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम्
तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम्
केदारं भद्रकर्णं च गया पुष्करमेव च
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम्