पाराशर्याय मुनये व्यासायामिततेजसे
को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम्
पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम्
प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम्
किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः
पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम्
पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुङ्गवम्
महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान्
माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान्
पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम्
न विद्यते ह्यविदितं भवता परमर्षिणा
अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः
अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः
तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम्
यदि वा विद्यते ऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि
प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम्
वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः
गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः
न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम्
देवासनगता देवी महादेवमपृच्छत
कथं त्वां पुरुषो देवमचिरादेव पश्यति
आयासबहुला लोके यानि चान्यानि शङ्कर
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम्
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः
सर्वेषामेव भूतानां संसारार्णवतारिणी
निवसन्ति महात्मानः परं नियममास्थिताः
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा