एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम्
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम्
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः
तेषां ललाटे तिलकं धारणीयं तु सर्वदा
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात्
धृतं त्रिशूलधरणाद् भवत्येव न संशयः
भवत्येव धृतं स्थानमैश्वरं तिलके कृते
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम्
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित्
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति
इदानीं क्रममस्माकमाश्रमाणां वद प्रभो
क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत्
प्रव्रजेद् ब्रह्मचर्यात् तु यदिच्छेत् परमां गतिम्
यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत्
नगार्हस्थ्यं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः
तत्रैव संन्यसेद् विद्वाननिष्ट्वापि द्विजोत्तमः
तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि
न संन्यासी वनं चाथ ब्रह्माचर्यं न साधकः
प्रव्रजेत गृही विद्वान् वनाद् वा श्रुतिचोदनात्
अन्धः पङ्गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः
पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति
श्रद्धावनाश्रमे युक्तः सो ऽमृतत्वाय कल्पते
स्वधर्मपालको नित्यं सो ऽमृतत्वाय कल्पते
प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम्
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम्
एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः